Saundarya Lahari -100 verses| Alphabetical order

 

 श्रीमच्छङ्करभगवत्पादविरचिता

सौन्दर्यलहरी

आद्यक्षरानुसारं श्लोकावलिः

(Verse distribution by opening letter 100 verses)

Offering from Mantra Artha Initiative 

A repository of 420 + hours of Prereocrded lectures on Vedas & allied wellness literature 

Email: mantrartha@gmail.com

 

 क्रम

अक्षर

IAST

श्लोकसंख्या

1

a

8

2

ka

12

3

ga

6

4

ca

2

5

ja

2

6

ta

14

7

da

2

8

dha

2

9

na

6

10

pa

7

11

bha

3

12

ma

5

13

ya

1

14

ra

1

15

la

1

16

va

6

17

śa

6

18

sa

13

19

ha

3

 

 

योग

100

 सारांशः / Notes

      १९ भिन्नाक्षरैः श्लोकाः आरभ्यन्तेएकः स्वरः (), अष्टादश व्यञ्जनानि। बहुलतमाः (१४), (१३), (१२) — एतैस्त्रिभिरेव ३९ श्लोकाः। , , प्रत्येकम् एकैकः श्लोकः। दीर्घस्वराः, -वर्गः, -, तथा -वर्गः एतैः कोऽपि श्लोकः आरभ्यते।

       The verses begin with 19 distinct letters — one vowel () and eighteen consonants. The most frequent are (14), (13), and (12) — these three alone account for 39 verses. , , and head one verse each. The long vowels, the -series, and , as well as , , , , , the ṭa-series ( ), , , and — no verse begins with any of these.

 


1. (मूलक्रमे श्लोकः 73)

अमू ते वक्षोजावमृतरसमाणिक्यकुतुपौ

न संदेहस्पन्दो नगपतिपताके मनसि नः ।

पिबन्तौ तौ यस्मादविदितवधूसङ्गरसिकौ

कुमारावद्यापि द्विरदवदनक्रौञ्चदलनौ ॥

2. (मूलक्रमे श्लोकः 58)

अरालं ते पालीयुगलमगराजन्यतनये

न केषामाधत्ते कुसुमशरकोदण्डकुतुकम् ।

तिरश्चीनो यत्र श्रवणपथमुल्लङ्घ्य विलस-

न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥

3. (मूलक्रमे श्लोकः 93)

अराला केशेषु प्रकृतिसरला मन्दहसिते

शिरीषाभा चित्ते दृषदुपलशोभा कुचतटे ।

भृशं तन्वी मध्ये पृथुरुरसिजारोहविषये

जगत्त्रातुं शम्भोर्जयति करुणा काचिदरुणा ॥

4. (मूलक्रमे श्लोकः 45)

अरालैः स्वाभाव्यादलिकलभसश्रीभिरलकैः

परीतं ते वक्त्रं परिहसति पङ्केरुहरुचिम् ।

दरस्मेरे यस्मिन् दशनरुचिकिञ्जल्करुचिरे

सुगन्धौ माद्यन्ति स्मरदहनचक्षुर्मधुलिहः ॥

 

 

5. (मूलक्रमे श्लोकः 3)

अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी

जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ

निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥

6. (मूलक्रमे श्लोकः 64)

अविश्रान्तं पत्युर्गुणगणकथाम्रेडनजपा

जपापुष्पच्छाया तव जननि जिह्वा जयति सा ।

यदग्रासीनायाः स्फटिकदृषदच्छच्छविमयी

सरस्वत्या मूर्तिः परिणमति माणिक्यवपुषा ॥

7. (मूलक्रमे श्लोकः 61)

असौ नासावंशस्तुहिनगिरिवंशध्वजपटि

त्वदीयो नेदीयः फलतु फलमस्माकमुचितम् ।

वहन्नन्तर्मुक्ताः शिशिरतरनिश्वासगलितं

समृद्ध्या यत्तासां बहिरपि च मुक्तामणिधरः ॥

8. (मूलक्रमे श्लोकः 48)

अहः सूते सव्यं तव नयनमर्कात्मकतया

त्रियामां वामं ते सृजति रजनीनायकतया ।

तृतीया ते दृष्टिर्दरदलितहेमाम्बुजरुचिः

समाधत्ते संध्यां दिवसनिशयोरन्तरचरीम् ॥

 

9. (मूलक्रमे श्लोकः 98)

कदा काले मातः कथय कलितालक्तकरसं

पिबेयं विद्यार्थी तव चरणनिर्णेजनजलम् ।

प्रकृत्या मूकानामपि च कविताकारणतया

कदा धत्ते वाणीमुखकमलताम्बूलरसताम् ॥

10. (मूलक्रमे श्लोकः 67)

कराग्रेण स्पृष्टं तुहिनगिरिणा वत्सलतया

गिरीशेनोदस्तं मुहुरधरपानाकुलतया ।

करग्राह्यं शम्भोर्मुखमुकुरवृन्तं गिरिसुते

कथङ्कारं ब्रूमस्तव चिबुकमौपम्यरहितम् ॥

11. (मूलक्रमे श्लोकः 82)

करीन्द्राणां शुण्डान् कनककदलीकाण्डपटली-

मुभाभ्यामूरुभ्यामुभयमपि निर्जित्य भवती ।

सुवृत्ताभ्यां पत्युः प्रणतिकठिनाभ्यां गिरिसुते

विजिग्ये जानुभ्यां विबुधकरिकुम्भद्वयमसि ॥

12. (मूलक्रमे श्लोकः 94)

कलङ्कः कस्तूरी रजनिकरबिम्बं जलमयं

कलाभिः कर्पूरैर्मरकतकरण्डं निबिडितम् ।

अतस्त्वद्भोगेन प्रतिदिनमिदं रिक्तकुहरं

विधिर्भूयो भूयो निबिडयति नूनं तव कृते ॥

13. (मूलक्रमे श्लोकः 96)

कलत्रं वैधात्रं कतिकति भजन्ते न कवयः

श्रियो देव्याः को वा न भवति पतिः कैरपि धनैः ।

महादेवं हित्वा तव सति सतीनामचरमे

कुचाभ्यामासङ्गः कुरवकतरोरप्यसुलभः ॥

14. (मूलक्रमे श्लोकः 50)

कवीनां संदर्भस्तबकमकरन्दैकरसिकं

कटाक्षव्याक्षेपभ्रमरकलभौ कर्णयुगलम् ।

अमुञ्चन्तौ दृष्ट्वा तव नवरसास्वादतरला-

वसूयासंसर्गादलिकनयनं किंचिदरुणम् ॥

15. (मूलक्रमे श्लोकः 16)

कवीन्द्राणां चेतःकमलवनबालातपरुचिं

भजन्ते ये सन्तः कतिचिदरुणामेव भवतीम् ।

विरिञ्चिप्रेयस्यास्तरुणतरशृङ्गारलहरी-

गभीराभिर्वाग्भिर्विदधति सतां रञ्जनममी ॥

16. (मूलक्रमे श्लोकः 20)

किरन्तीमङ्गेभ्यः किरणनिकुरम्बामृतरसं

हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।

स सर्पाणां दर्पं शमयति शकुन्ताधिप इव

ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधारसिरया ॥

17. (मूलक्रमे श्लोकः 29)

किरीटं वैरिञ्चं परिहर पुरः कैटभभिदः

कठोरे कोटीरे स्खलसि जहि जम्भारिमुकुटम् ।

प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं

भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥

18. (मूलक्रमे श्लोकः 80)

कुचौ सद्यःस्विद्यत्तटघटितकूर्पासभिदुरौ

कषन्तौ दोर्मूले कनककलशाभौ कलयता ।

तव त्रातुं भङ्गादलमिति वलग्नं तनुभुवा

त्रिधा नद्धं देवि त्रिवलि लवलीवल्लिभिरिव ॥

19. (मूलक्रमे श्लोकः 7)

क्वणत्काञ्चीदामा करिकलभकुम्भस्तननता

परिक्षीणा मध्ये परिणतशरच्चन्द्रवदना ।

धनुर्बाणान् पाशं सृणिमपि दधाना करतलैः

पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥

20. (मूलक्रमे श्लोकः 14)

क्षितौ षट्पञ्चाशद् द्विसमधिकपञ्चाशदुदके

हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।

दिवि द्विष्षट्त्रिंशन्मनसि च चतुष्षष्टिरिति ये

मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥

21. (मूलक्रमे श्लोकः 92)

गतास्ते मञ्चत्वं द्रुहिणहरिरुद्रेश्वरभृतः

शिवः स्वच्छच्छायाघटितकपटप्रच्छदपटः ।

त्वदीयानां भासां प्रतिफलनरागारुणतया

शरीरी शृङ्गारो रस इव दृशां दोग्धि कुतुकम् ॥

22. (मूलक्रमे श्लोकः 52)

गते कर्णाभ्यर्णं गरुत इव पक्ष्माणि दधती

पुरां भेत्तुश्चित्तप्रशमरसविद्रावणफले ।

इमे नेत्रे गोत्राधरपतिकुलोत्तंसकलिके

तवाकर्णाकृष्टस्मरशरविलासं कलयतः ॥

23. (मूलक्रमे श्लोकः 42)

गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रघटितं

किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।

स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं

धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥

24. (मूलक्रमे श्लोकः 69)

गले रेखास्तिस्रो गतिगमकगीतैकनिपुणे

विवाहव्यानद्धप्रगुणगुणसंख्याप्रतिभुवः ।

विराजन्ते नानाविधमधुररागाकरभुवां

त्रयाणां ग्रामाणां स्थितिनियमसीमान इव ते ॥

25. (मूलक्रमे श्लोकः 97)

गिरामाहुर्देवीं द्रुहिणगृहिणीमागमविदो

हरेः पत्नीं पद्मां हरसहचरीमद्रितनयाम् ।

तुरीया कापि त्वं दुरधिगमनिःसीममहिमा

महामाया विश्वं भ्रमयसि परब्रह्ममहिषि ॥

26. (मूलक्रमे श्लोकः 81)

गुरुत्वं विस्तारं क्षितिधरपतिः पार्वति निजा-

न्नितम्बादाच्छिद्य त्वयि हरणरूपेण निदधे ।

अतस्ते विस्तीर्णो गुरुरयमशेषां वसुमतीं

नितम्बप्राग्भारः स्थगयति लघुत्वं नयति च ॥

27. (मूलक्रमे श्लोकः 11)

चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि

प्रभिन्नाभिः शम्भोर्नवभिरपि मूलप्रकृतिभिः ।

चतुश्चत्वारिंशद्वसुदलकलाश्रत्रिवलय-

त्रिरेखाभिः सार्धं तव शरणकोणाः परिणताः ॥

28. (मूलक्रमे श्लोकः 31)

चतुष्षष्ट्या तन्त्रैः सकलमतिसंधाय भुवनं

स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।

पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-

स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥

29. (मूलक्रमे श्लोकः 24)

जगत्सूते धाता हरिरवति रुद्रः क्षपयते

तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ।

सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-

स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥

30. (मूलक्रमे श्लोकः 27)

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना

गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।

प्रणामस्संवेशस्सुखमखिलमात्मार्पणदृशा

सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥

31. (मूलक्रमे श्लोकः 40)

तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया

स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।

तव श्यामं मेघं कमपि मणिपूरैकशरणं

निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनम् ॥

32. (मूलक्रमे श्लोकः 21)

तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं

निषण्णां षण्णामप्युपरि कमलानां तव कलाम् ।

महापद्माटव्यां मृदितमलमायेन मनसा

महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥

33. (मूलक्रमे श्लोकः 2)

तनीयांसं पांसुं तव चरणपङ्केरुहभवं

विरिञ्चिस्सञ्चिन्वन् विरचयति लोकानविकलम् ।

वहत्येनं शौरिः कथमपि सहस्रेण शिरसां

हरस्संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥

34. (मूलक्रमे श्लोकः 18)

तनुच्छायाभिस्ते तरुणतरणिश्रीसरणिभिः

दिवं सर्वामुर्वीमरुणिमनि मग्नां स्मरति यः ।

भवन्त्यस्य त्रस्यद्वनहरिणशालीननयनाः

सहोर्वश्या वश्याः कति कति न गीर्वाणगणिकाः ॥

35. (मूलक्रमे श्लोकः 44)

तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी-

परीवाहस्रोतःसरणिरिव सीमन्तसरणिः ।

वहन्ती सिन्दूरं प्रबलकबरीभारतिमिर-

द्विषां वृन्दैर्बन्दीकृतमिव नवीनार्ककिरणम् ॥

36. (मूलक्रमे श्लोकः 75)

तव स्तन्यं मन्ये धरणिधरकन्ये हृदयतः

पयःपारावारः परिवहति सारस्वतमिव ।

दयावत्या दत्तं द्रविडशिशुरास्वाद्य तव यत्

कवीनां प्रौढानामजनि कमनीयः कवयिता ॥

37. (मूलक्रमे श्लोकः 39)

तव स्वाधिष्ठाने हुतवहमधिष्ठाय निरतं

तमीडे संवर्तं जननि महतीं तां च समयाम् ।

यदालोके लोकान् दहति महति क्रोधकलिते

दयार्द्रा या दृष्टिः शिशिरमुपचारं रचयति ॥

38. (मूलक्रमे श्लोकः 36)

तवाज्ञाचक्रस्थं तपनशशिकोटिद्युतिधरं

परं शम्भुं वन्दे परिमिलितपार्श्वं परचिता ।

यमाराध्यन् भक्त्या रविशशिशुचीनामविषये

निरालोकेऽलोके निवसति हि भालोकभुवने ॥

39. (मूलक्रमे श्लोकः 41)

तवाधारे मूले सह समयया लास्यपरया

नवात्मानं मन्ये नवरसमहाताण्डवनटम् ।

उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया

सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥

40. (मूलक्रमे श्लोकः 56)

तवापर्णे कर्णेजपनयनपैशुन्यचकिता

निलीयन्ते तोये नियतमनिमेषाः शफरिकाः ।

इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयम्

जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥

41. (मूलक्रमे श्लोकः 25)

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे

भवेत् पूजा पूजा तव चरणयोर्या विरचिता ।

तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे

स्थिता ह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥

42. (मूलक्रमे श्लोकः 4)

त्वदन्यः पाणिभ्यामभयवरदो दैवतगणः

त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।

भयात् त्रातुं दातुं फलमपि च वाञ्छासमधिकं

शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥

43. (मूलक्रमे श्लोकः 12)

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं

कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।

यदालोकौत्सुक्यादमरललना यान्ति मनसा

तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥

44. (मूलक्रमे श्लोकः 23)

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा

शरीरार्धं शम्भोरपरमपि शङ्के हृतमभूत् ।

यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं

कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥

45. (मूलक्रमे श्लोकः 90)

ददाने दीनेभ्यः श्रियमनिशमाशानुसदृशी-

ममन्दं सौन्दर्यप्रकरमकरन्दम् विकिरति ।

तवास्मिन् मन्दारस्तबकसुभगे यातु चरणे

निमज्जन्मज्जीवः करणचरणः षट्चरणताम् ॥

46. (मूलक्रमे श्लोकः 57)

दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा

दवीयांसं दीनं स्नपय कृपया मामपि शिवे ।

अनेनायं धन्यो भवति न च ते हानिरियता

वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥

47. (मूलक्रमे श्लोकः 6)

धनुः पौष्पं मौर्वी मधुकरमयी पञ्च विशिखाः

वसन्तः सामन्तो मलयमरुदायोधनरथः ।

तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपाम्

अपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥

48. (मूलक्रमे श्लोकः 43)

धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं

घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।

यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो

वसन्त्यस्मिन् मन्ये वलमथनवाटीविटपिनाम् ॥

49. (मूलक्रमे श्लोकः 71)

नखानामुद्द्योतैर्नवनलिनरागं विहसतां

कराणां ते कान्तिं कथय कथयामः कथमुमे ।

कयाचिद्वा साम्यं भजतु कलया हन्त कमलं

यदि क्रीडल्लक्ष्मीचरणतललाक्षारुणदलम् ॥

50. (मूलक्रमे श्लोकः 89)

नखैर्नाकस्त्रीणां करकमलसंकोचशशिभि-

स्तरूणां दिव्यानां हसत इव ते चण्डि चरणौ ।

फलानि स्वःस्थेभ्यः किसलयकराग्रेण ददतां

दरिद्रेभ्यो भद्रां श्रियमनिशमह्नाय ददतौ ॥

51. (मूलक्रमे श्लोकः 85)

नमोवाकं ब्रूमो नयनरमणीयाय पदयो-

स्तवास्मै द्वन्द्वाय स्फुटरुचिरसालक्तकवते ।

असूयत्यत्यन्तं यदभिहननाय स्पृहयते

पशूनामीशानः प्रमदवनकङ्केलितरवे ॥

52. (मूलक्रमे श्लोकः 13)

नरं वर्षीयांसं नयनविरसं नर्मसु जडं

तवापाङ्गालोके पतितमनुधावन्ति शतशः ।

गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया

हठात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥

53. (मूलक्रमे श्लोकः 55)

निमेषोन्मेषाभ्यां प्रलयमुदयं याति जगती

तवेत्याहुः सन्तो धरणिधरराजन्यतनये ।

त्वदुन्मेषाज्जातं जगदिदमशेषं प्रलयतः

परित्रातुं शङ्के परिहृतनिमेषास्तव दृशः ॥

54. (मूलक्रमे श्लोकः 79)

निसर्गक्षीणस्य स्तनतटभरेण क्लमजुषो

नमन्मूर्तेर्नारीतिलक शनकैस्त्रुट्यत इव ।

चिरं ते मध्यस्य त्रुटिततटिनीतीरतरुणा

समावस्थास्थेम्नो भवतु कुशलं शैलतनये ॥

55. (मूलक्रमे श्लोकः 88)

पदं ते कीर्तीनां प्रपदमपदं देवि विपदां

कथं नीतं सद्भिः कठिनकमठीकर्परतुलाम् ।

कथं वा बाहुभ्यामुपयमनकाले पुरभिदा

यदादाय न्यस्तं दृषदि दयमानेन मनसा ॥

56. (मूलक्रमे श्लोकः 91)

पदन्यासक्रीडापरिचयमिवारब्धुमनसः

स्खलन्तस्ते खेलं भवनकलहंसा न जहति ।

अतस्तेषां शिक्षां सुभगमणिमञ्जीररणित-

च्छलादाचक्षाणं चरणकमलं चारुचरिते ॥

57. (मूलक्रमे श्लोकः 83)

पराजेतुं रुद्रं द्विगुणशरगर्भौ गिरिसुते

निषङ्गौ जङ्घे ते विषमविशिखो बाढमकृत ।

यदग्रे दृश्यन्ते दशशरफलाः पादयुगली-

नखाग्रच्छद्मानः सुरमकुटशाणैकनिशिताः ॥

58. (मूलक्रमे श्लोकः 54)

पवित्रीकर्तुं नः पशुपतिपराधीनहृदये

दयामित्रैर्नेत्रैररुणधवलश्यामरुचिभिः ।

नदः शोणो गङ्गा तपनतनयेति ध्रुवममुं

त्रयाणां तीर्थानामुपनयसि संभेदमनघम् ॥

59. (मूलक्रमे श्लोकः 95)

पुरारातेरन्तःपुरमसि ततस्त्वच्चरणयोः

सपर्यामर्यादा तरलकरणानामसुलभा ।

तथा ह्येते नीताः शतमखमुखाः सिद्धिमतुलां

तव द्वारोपान्तस्थितिभिरणिमाद्याभिरमराः ॥

60. (मूलक्रमे श्लोकः 62)

प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः

प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।

न बिम्बं तद्बिम्बप्रतिफलनरागादरुणितं

तुलामध्यारोढुं कथमिव विलज्जेत कलया ॥

61. (मूलक्रमे श्लोकः 100)

प्रदीपज्वालाभिर्दिवसकरनीराजनविधिः

सुधासूतेश्चन्द्रोपलजललवैरर्घ्यरचना ।

स्वकीयैरम्भोभिः सलिलनिधिसौहित्यकरणं

त्वदीयाभिर्वाग्भिस्तव जननि वाचां स्तुतिरियम् ॥

62. (मूलक्रमे श्लोकः 22)

भवानि त्वं दासे मयि वितर दृष्टिं सकरुणा-

मिति स्तोतुं वाञ्छन् कथयति भवानि त्वमिति यः ।

तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं

मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥

63. (मूलक्रमे श्लोकः 68)

भुजाश्लेषान्नित्यं पुरदमयितुः कण्टकवती

तव ग्रीवा धत्ते मुखकमलनालश्रियमियम् ।

स्वतः श्वेता कालागुरुबहुलजम्बालमलिना

मृणालीलालित्यम् वहति यदधो हारलतिका ॥

64. (मूलक्रमे श्लोकः 47)

भ्रुवौ भुग्ने किंचिद्भुवनभयभङ्गव्यसनिनि

त्वदीये नेत्राभ्यां मधुकररुचिभ्यां धृतगुणम् ।

धनुर्मन्ये सव्येतरकरगृहीतं रतिपतेः

प्रकोष्ठे मुष्टौ च स्थगयति निगूढान्तरमुमे ॥

65. (मूलक्रमे श्लोकः 35)

मनस्त्वं व्योम त्वं मरुदसि मरुत्सारथिरसि

त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ।

त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा

चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥

66. (मूलक्रमे श्लोकः 9)

महीं मूलाधारे कमपि मणिपूरे हुतवहं

स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।

मनोऽपि भ्रूमध्ये सकलमपि भित्वा कुलपथं

सहस्रारे पद्मे सह रहसि पत्या विहरसे ॥

67. (मूलक्रमे श्लोकः 19)

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो

हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम् ।

स सद्यः संक्षोभं नयति वनिता इत्यतिलघु

त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ॥

68. (मूलक्रमे श्लोकः 70)

मृणालीमृद्वीनां तव भुजलतानां चतसृणां

चतुर्भिः सौन्दर्यं सरसिजभवः स्तौति वदनैः ।

नखेभ्यः सन्त्रस्यन् प्रथममथनादन्धकरिपो-

श्चतुर्णां शीर्षाणां सममभयहस्तार्पणधिया ॥

69. (मूलक्रमे श्लोकः 86)

मृषा कृत्वा गोत्रस्खलनमथ वैलक्ष्यनमितं

ललाटे भर्तारं चरणकमले ताडयति ते ।

चिरादन्तःशल्यं दहनकृतमुन्मूलितवता

तुलाकोटिक्वाणैः किलिकिलितमीशानरिपुणा ॥

70. (मूलक्रमे श्लोकः 77)

यदेतत् कालिन्दीतनुतरतरङ्गाकृति शिवे

कृशे मध्ये किंचिज्जननि तव यद्भाति सुधियाम् ।

विमर्दादन्योऽन्यं कुचकलशयोरन्तरगतं

तनूभूतं व्योम प्रविशदिव नाभिं कुहरिणीम् ॥

71. (मूलक्रमे श्लोकः 65)

रणे जित्वा दैत्यानपहृतशिरस्त्रैः कवचिभिर्-

निवृत्तैश्चण्डांशत्रिपुरहरनिर्माल्यविमुखैः ।

विशाखेन्द्रोपेन्द्रैः शशिविशदकर्पूरशकला

विलीयन्ते मातस्तव वदनताम्बूलकबलाः ॥

72. (मूलक्रमे श्लोकः 46)

ललाटं लावण्यद्युतिविमलमाभाति तव य-

द्द्वितीयं तन्मन्ये मकुटघटितं चन्द्रशकलम् ।

विपर्यासन्यासादुभयमपि संभूय च मिथः

सुधालेपस्यूतिः परिणमति राकाहिमकरः ॥

73. (मूलक्रमे श्लोकः 74)

वहत्यम्ब स्तम्बेरमदनुजकुम्भप्रकृतिभिः

समारब्धां मुक्तामणिभिरमलां हारलतिकाम् ।

कुचाभोगो बिम्बाधररुचिभिरन्तः शबलितां

प्रतापव्यामिश्रां पुरदमयितुः कीर्तिमिव ते ॥

74. (मूलक्रमे श्लोकः 66)

विपञ्च्या गायन्ती विविधमपदानं पशुपतेः

त्वयारब्धे वक्तुं चलितशिरसा साधुवचने ।

तदीयैर्माधुर्यैरपलपिततन्त्रीकलरवां

निजां वीणां वाणी निचुलयति चोलेन निभृतम् ॥

75. (मूलक्रमे श्लोकः 53)

विभक्तत्रैवर्ण्यं व्यतिकरितलीलाञ्जनतया

विभाति त्वन्नेत्रत्रितयमिदमीशानदयिते ।

पुनः स्रष्टुं देवान् द्रुहिणहरिरुद्रानुपरतान्

रजः सत्त्वं बिभ्रत्तम इति गुणानां त्रयमिव ॥

76. (मूलक्रमे श्लोकः 26)

विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं

विनाशं कीनाशो भजति धनदो याति निधनम् ।

वितन्द्री माहेन्द्री विततिरपि संमीलितदृशा

महासंहारेऽस्मिन् विहरति सति त्वत्पतिरसौ ॥

77. (मूलक्रमे श्लोकः 49)

विशाला कल्याणी स्फुटरुचिरयोध्या कुवलयैः

कृपाधाराधारा किमपि मधुराभोगवतिका ।

अवन्ती दृष्टिस्ते बहुनगरविस्तारविजया

ध्रुवं तत्तन्नामव्यवहरणयोग्या विजयते ॥

78. (मूलक्रमे श्लोकः 37)

विशुद्धौ ते शुद्धस्फटिकविशदं व्योमजनकं

शिवं सेवे देवीमपि शिवसमानव्यवसिताम् ।

ययोः कान्त्या यान्त्याः शशिकिरणसारूप्यसरणे-

विधूतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥

79. (मूलक्रमे श्लोकः 15)

शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूटमकुटां

वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।

सकृन्न त्वा नत्वा कथमिव सतां संन्निदधते

मधुक्षीरद्राक्षामधुरिमधुरीणाः भणितयः ॥

80. (मूलक्रमे श्लोकः 34)

शरीरं त्वं शम्भोः शशिमिहिरवक्षोरुहयुगं

तवात्मानं मन्ये भगवति नवात्मानमनघम् ।

अतश्शेषश्शेषीत्ययमुभयसाधारणतया

स्थितः संबन्धो वां समरसपरानन्दपरयोः ॥

81. (मूलक्रमे श्लोकः 32)

शिवः शक्तिः कामः क्षितिरथ रविः शीतकिरणः

स्मरो हंसः शक्रस्तदनु च परामारहरयः ।

अमी हृल्लेखाभिस्तिसृभिरवसानेषु घटिता

भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥

82. (मूलक्रमे श्लोकः 1)

शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं

न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि ।

अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि

प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥

83. (मूलक्रमे श्लोकः 51)

शिवे शृङ्गारार्द्रा तदितरजने कुत्सनपरा

सरोषा गङ्गायां गिरिशचरिते विस्मयवती ।

हराहिभ्यो भीता सरसिरुहसौभाग्यजननी

सखीषु स्मेरा ते मयि जननी दृष्टिः सकरुणा ॥

84. (मूलक्रमे श्लोकः 84)

श्रुतीनां मूर्धानो दधति तव यौ शेखरतया

ममाप्येतौ मातः शिरसि दयया धेहि चरणौ ।

ययोः पाद्यं पाथः पशुपतिजटाजूटतटिनी

ययोर्लाक्षालक्ष्मीररुणहरिचूडामणिरुचिः ॥

85. (मूलक्रमे श्लोकः 72)

समं देवि स्कन्दद्विपवदनपीतं स्तनयुगं

तवेदं नः खेदं हरतु सततं प्रस्नुतमुखम् ।

यदालोक्याशङ्काकुलितहृदयो हासजनकः

स्वकुम्भौ हेरम्बः परिमृशति हस्तेन झडिति ॥

86. (मूलक्रमे श्लोकः 38)

समुन्मीलत् संवित् कमलमकरन्दैकरसिकं

भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ।

यदालापादष्टादशगुणितविद्यापरिणति-

र्यदादत्ते दोषाद् गुणमखिलमद्भ्यः पय इव ॥

87. (मूलक्रमे श्लोकः 99)

सरस्वत्या लक्ष्म्या विधिहरिसपत्नो विहरते

रतेः पातिव्रत्यं शिथिलयति रम्येण वपुषा ।

चिरं जीवन्नेव क्षपितपशुपाशव्यतिकरः

परानन्दाभिख्यम् रसयति रसं त्वद्भजनवान् ॥

88. (मूलक्रमे श्लोकः 60)

सरस्वत्याः सूक्तीरमृतलहरीकौशलहरीः

पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।

चमत्कारश्लाघाचलितशिरसः कुण्डलगणो

झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥

89. (मूलक्रमे श्लोकः 17)

सवित्रीभिर्वाचां शशिमणिशिलाभङ्गरुचिभिः

वशिन्याद्याभिस्त्वां सह जननि संचिन्तयति यः ।

स कर्ता काव्यानां भवति महतां भङ्गिरुचिभिः

वचोभिर्वाग्देवीवदनकमलामोदमधुरैः ॥

90. (मूलक्रमे श्लोकः 10)

सुधाधारासारैश्चरणयुगलान्तर्विगलितैः

प्रपञ्चं सिञ्चन्ती पुनरपि रसाम्नायमहसः ।

अवाप्य स्वां भूमिं भुजगनिभमध्युष्टवलयं

स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ॥

91. (मूलक्रमे श्लोकः 28)

सुधामप्यास्वाद्य प्रतिभयजरामृत्युहरिणीं

विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।

करालं यत्क्ष्वेलं कबलितवतः कालकलना

न शम्भोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥

92. (मूलक्रमे श्लोकः 8)

सुधासिन्धोर्मध्ये सुरविटपिवाटीपरिवृते

मणिद्वीपे नीपोपवनवति चिन्तामणिगृहे ।

शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां

भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् ॥

93. (मूलक्रमे श्लोकः 78)

स्थिरो गङ्गावर्तः स्तनमुकुलरोमावलिलता-

कलावालं कुण्डं कुसुमशरतेजोहुतभुजः ।

रतेर्लीलागारं किमपि तव नाभिर्गिरिसुते

बिलद्वारं सिद्धेर्गिरिशनयनानां विजयते ॥

94. (मूलक्रमे श्लोकः 59)

स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं

चतुश्चक्रं मन्ये तव मुखमिदं मन्मथरथम् ।

यमारुह्य द्रुह्यत्यवनिरथमर्केन्दुचरणं

महावीरो मारः प्रमथपतये सज्जितवते ॥

95. (मूलक्रमे श्लोकः 33)

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-

र्निधायैके नित्ये निरवधिमहाभोगरसिकाः ।

भजन्ति त्वां चिन्तामणिगुननिबद्धाक्षवलयाः

शिवाग्नौ जुह्वन्तः सुरभिघृतधाराहुतिशतैः ॥

96. (मूलक्रमे श्लोकः 63)

स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां

चकोराणामासीदतिरसतया चञ्चुजडिमा ।

अतस्ते शीतांशोरमृतलहरीमम्लरुचयः

पिबन्ति स्वच्छन्दं निशि निशि भृशं काञ्जिकधिया ॥

97. (मूलक्रमे श्लोकः 30)

स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो

निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।

किमाश्चर्यं तस्य त्रिनयनसमृद्धिं तृणयतो

महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥

98. (मूलक्रमे श्लोकः 76)

हरक्रोधज्वालावलिभिरवलीढेन वपुषा

गभीरे ते नाभीसरसि कृतसङ्गो मनसिजः ।

समुत्तस्थौ तस्मादचलतनये धूमलतिका

जनस्तां जानीते तव जननि रोमावलिरिति ॥

99. (मूलक्रमे श्लोकः 5)

हरिस्त्वामाराध्य प्रणतजनसौभाग्यजननीं

पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयत् ।

स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा

मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥

100. (मूलक्रमे श्लोकः 87)

हिमानीहन्तव्यं हिमगिरिनिवासैकचतुरौ

निशायां निद्राणं निशि चरमभागे च विशदौ ।

वरं लक्ष्मीपात्रं श्रियमतिसृजन्तौ समयिनां

सरोजं त्वत्पादौ जननि जयतश्चित्रमिह किम् ॥

 

 

=======

Comments

Popular posts from this blog

Mantra Artha Initiative| 400+ Hours

Sukha: Perspectives on Bliss from the Gita

Prana and Manas in the Light of Bhagavad Gita!